मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् ६

संहिता

स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई॑शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये॑ ।
स तो॒कसा॑ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो॑ अभवत्स॒मत्सु॑ ॥

पदपाठः

सः । हि । धी॒भिः । हव्यः॑ । अस्ति॑ । उ॒ग्रः । ई॒शा॒न॒ऽकृत् । म॒ह॒ति । वृ॒त्र॒ऽतूर्ये॑ ।
सः । तो॒कऽसा॑ता । तन॑ये । सः । व॒ज्री । वि॒त॒न्त॒साय्यः॑ । अ॒भ॒व॒त् । स॒मत्ऽसु॑ ॥

सायणभाष्यम्

उग्रः ओजस्वी ईशानकृत् स्तोतॄनीशानान् समर्थान्करोतीतीशानकृत् सइन्द्रः महति प्रभूते वृत्रतूर्ये संग्रामे वृत्रतूर्यइतिसंग्रामनामैतत् धीभिः स्तोतृभिः स्तुतिभिर्वा हव्योजयार्थिभिराह्वातव्यः अस्ति भवति हिशब्दःपादपूरणः तोकसाता तोकस्यपुत्रस्यसातौलाभेनिमित्ते तनये तत्पुत्रे निमित्तेसति सइन्द्रआह्वातव्योस्ति वज्री वज्रवान् सइन्द्रः समत्सु संग्रामेषु वितंतसाय्यः विशेषेणविस्तार्यः स्तोत्रैर्वन्दनी- योभवत् भवति यद्वा तन्तसाय्यः शत्रूणांहिंसकः तंतसइतिधातुर्हींसाकर्मा तस्यकर्तरिरूपम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः