मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् ७

संहिता

स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे ।
स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये॑ण॒ नृत॑म॒ः समो॑काः ॥

पदपाठः

सः । म॒ज्मना॑ । जनि॑म । मानु॑षाणाम् । अम॑र्त्येन । नाम्ना॑ । अति॑ । प्र । स॒र्स्रे॒ ।
सः । द्यु॒म्नेन॑ । सः । शव॑सा । उ॒त । रा॒या । सः । वी॒र्ये॑ण । नृऽत॑मः । सम्ऽओ॑काः ॥

सायणभाष्यम्

सइन्द्रः अमर्त्येन विनाशरहितेन नाम्ना श्त्रूणांनमयित्रा मज्मना बलेन मज्मनेतिबलनामैतत् मानुषाणां मनुष्याणां जनिम जन्मसंघ- मित्यर्थः अतिप्रसर्स्रे अतिप्रपेदे सइन्द्रः द्युम्नेन यशसा समोकाः समनस्थानोभवति किंच सइन्द्रः शवसा बलेन समोकाभवति उतापिच नृतमोनेतृतमः सइन्द्रः राया धनेन वीर्येण सामर्थ्येनच समोकाभवति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः