मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् ८

संहिता

स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं॑ च ।
वृ॒णक्पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्र॑ः पु॒रां च्यौ॒त्नाय॑ श॒यथा॑य॒ नू चि॑त् ॥

पदपाठः

सः । यः । न । मु॒हे । न । मिथु॑ । जनः॑ । भूत् । सु॒मन्तु॑ऽनामा । चुमु॑रिम् । धुनि॑म् । च॒ ।
वृ॒णक् । पिप्रु॑म् । शम्ब॑रम् । शुष्ण॑म् । इन्द्रः॑ । पु॒राम् । च्यौ॒त्नाय॑ । श॒यथा॑य । नु । चि॒त् ॥

सायणभाष्यम्

यइन्द्रः न मुहे संग्रामेकदापिनमुह्यति यश्च मिथु मिथ्यावृथा जनोजनयितानभून्नभवति किंतु सुमन्तुनामा प्रज्ञाननामा प्रख्यातनामे- त्यर्थः सइन्द्रः पुरां शत्रुसंबन्धिनीनांपुरीणां च्यौत्नाय च्यवनाय नाशाय शयथाय शत्रूणांमरणायच नूचित् शीघ्रमेवकर्मकुरुतइतिशेषः त- था चुमुरिंधुनिंच एतन्नामकावसुरौ वृणगवृणक् हिंसितवानसि वृणक्तिर्हिंसाकर्मा अपिच पिप्रुं शंबरं शुष्णं एतन्नामकान् त्रीनसुरान् हिं- सितवानसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः