मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् ९

संहिता

उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या॑य॒ रथ॑मिन्द्र तिष्ठ ।
धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्राभि प्र म॑न्द पुरुदत्र मा॒याः ॥

पदपाठः

उ॒त्ऽअव॑ता । त्वक्ष॑सा । पन्य॑सा । च॒ । वृ॒त्र॒ऽहत्या॑य । रथ॑म् । इ॒न्द्र॒ । ति॒ष्ठ॒ ।
धि॒ष्व । वज्र॑म् । हस्ते॑ । आ । द॒क्षि॒ण॒ऽत्रा । अ॒भि । प्र । म॒न्द॒ । पु॒रु॒ऽद॒त्र॒ । मा॒याः ॥

सायणभाष्यम्

हेइन्द्र उदवतोद्गच्छता अवतिरत्रगतिकर्मा त्वक्षसा शत्रूणांतनूकर्त्रा पन्यसा स्तुत्यतरेणबलेनयुक्तस्त्वं वृत्रहत्याय शत्रुहननाय स्वकी- यंरथंच तिष्ठ आरोह तथा दक्षिणत्रा दक्षिणहस्तेपाणौ वज्रं स्वकीयमायुधं आधिष्व आधत्स्व तदनंतरं हेपुरुदत्र बहुधनेन्द्र त्वं आसुरी- र्मायाः अभि अभिगम्य प्रमन्द प्रकर्षेण जहि अत्रमन्दतिर्वधकर्मा ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः