मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् ११

संहिता

आ स॒हस्रं॑ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे॑भिर॒र्वाक् ।
या॒हि सू॑नो सहसो॒ यस्य॒ नू चि॒ददे॑व॒ ईशे॑ पुरुहूत॒ योतो॑ः ॥

पदपाठः

आ । स॒हस्र॑म् । प॒थिऽभिः॑ । इ॒न्द्र॒ । रा॒या । तुवि॑ऽद्युम्न । तु॒वि॒ऽवाजे॑भिः । अ॒र्वाक् ।
या॒हि । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यस्य॑ । नु । चि॒त् । अदे॑वः । ईशे॑ । पु॒रु॒ऽहू॒त॒ । योतोः॑ ॥

सायणभाष्यम्

हेतुविद्युम्न बहुधन हेसहसःसूनो बलस्यपुत्रेन्द्र ओजसोजातमुतमन्यएनमितिनिगमान्तरे बलपुत्रत्वंप्रसिद्धं राया धनेन युक्तस्त्वं सहस्रं सहस्रेण बहुभिरित्यर्थः तुविवाजेभिः बहुबलैः पथिभिः पतन्ति गच्छंत्यमीभिरितिपंथानोवाहाः तैअर्वाक् मदभिमुखःसन् आयाह्यागच्छ हेपुरुहूत बहुभिराहूतेन्द्र यस्यतव योतोः बलादिभिःपृथक्कर्तुं अदेवः कश्चिदसुरः नूचिदीशे नेष्टेअत्रन् चिदितिनिषेधार्थेवर्तते ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः