मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् १२

संहिता

प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे॑र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः ।
नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्यो॑ः ॥

पदपाठः

प्र । तु॒वि॒ऽद्यु॒म्नस्य॑ । स्थवि॑रस्य । घृष्वेः॑ । दि॒वः । र॒र॒प्शे॒ । म॒हि॒मा । पृ॒थि॒व्याः ।
न । अ॒स्य॒ । शत्रुः॑ । न । प्र॒ति॒ऽमान॑म् । अ॒स्ति॒ । न । प्र॒ति॒ऽस्थिः । पु॒रु॒ऽमा॒यस्य॑ । सह्योः॑ ॥

सायणभाष्यम्

तुविद्युम्नस्य बहुयशसोबहुधनस्यवा स्थविरस्य प्रवृद्धस्य घृष्वेः शत्रूणांघर्षकस्येन्द्रस्य महिमामहत्त्वं दिवोद्युलोकात् पृथिव्याः भूमेश्च प्रररप्शे प्ररिरिचे विरप्शीतिमहन्नामसुपाठात् नाम्नांचप्रायेणधातुजत्वात् रप्शतिरत्रातिशयवाची पुरुमायस्य बहुप्रज्ञस्य सह्योः शत्रूणा- मभिभवितुरस्येन्द्रस्य शत्रुःशातयितानास्ति प्रतिमानं प्रतिनिधिर्नास्ति अस्यप्रतिष्ठिः प्रतिष्ठा आश्रयोनास्ति सएव सर्वस्यप्रतिष्ठेत्यर्थः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः