मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् १

संहिता

म॒हाँ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।
अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥

पदपाठः

म॒हान् । इन्द्रः॑ । नृ॒ऽवत् । आ । च॒र्ष॒णि॒ऽप्राः । उ॒त । द्वि॒ऽबर्हाः॑ । अ॒मि॒नः । सहः॑ऽभिः ।
अ॒स्म॒द्र्य॑क् । व॒वृ॒धे॒ । वी॒र्या॑य । उ॒रुः । पृ॒थुः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥

सायणभाष्यम्

नृवत् यथा नेताराजाभूत्यादीनांकामानांपूरयितातद्वत् चर्षणिप्राः चर्षणीनां स्तोतृजनानांकामानांपूरकः महान् प्रभूतइन्द्रआगच्छतु आइत्युपसर्गदर्शनाद्गच्छत्वित्याख्यातस्याध्याहारः उतापिच द्विबार्हाः द्वयोर्लोकयोःपरिवृढः सहोभिः शत्रुबलैः अमिनः अहिंसनीयइन्द्रः अस्मन्द्यक् अस्मदभिमुखंयथाभवतितथा वीर्याय वीरकर्मकरणाय ववृधे वर्धते उरुः शरीरेणविस्तीर्णः पृथुगुणैः प्रथितः कर्तृभिर्यजमानैः सुकृतोभूत् सुष्ठुपरिचरितोभवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः