मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् २

संहिता

इन्द्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् ।
अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥

पदपाठः

इन्द्र॑म् । ए॒व । धि॒षणा॑ । सा॒तये॑ । धा॒त् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् ।
अषा॑ळ्हेन । शव॑सा । शू॒शु॒ऽवांस॑म् । स॒द्यः । चि॒त् । यः । व॒वृ॒धे । असा॑मि ॥

सायणभाष्यम्

धिषणा अस्मदीयास्तुतिः सातये दानाय इन्द्रमेवधात् धारयति कीदृशं बृहन्तं महान्तं ऋष्वं गन्तारं अजरं जरारहितं युवानं नित्यत- रुणं अषाह्ळेन शत्रुभिरनभिभूतेन शवसा बलेन शूशुवांसं प्रवृद्धं श्वयतेरिदंरूपं यइन्द्रः सद्यश्चित् सद्यएवजातमात्रःसन् असामि अनल्पं अधिकंयथाभवतितथा ववृधे वर्धते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः