मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् ३

संहिता

पृ॒थू क॒रस्ना॑ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।
यू॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इ॑न्द्रा॒भ्या व॑वृत्स्वा॒जौ ॥

पदपाठः

पृ॒थू इति॑ । क॒रस्ना॑ । ब॒हु॒ला । गभ॑स्ती॒ इति॑ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ।
यू॒थाऽइ॑व । प॒श्वः । प॒शु॒ऽपाः । दमू॑नाः । अ॒स्मान् । इ॒न्द्र॒ । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒जौ ॥

सायणभाष्यम्

हेइन्द्र त्वं पृथूविस्तीर्णौ करस्ना कर्मणांकर्तारौ बहुला बहुप्रदौ गभस्ती त्वदीयौबाहू श्रवांस्यन्नानि दातुमितिशेषः अस्मद्भ्यक अस्मद- भिमुखं संमिमीहि कुरु किंच हेइन्द्र दमूनाः दान्तमनास्त्वं आजौ संग्रामे अस्मानभ्याववृत्स्व अभ्यावर्तस्व तत्रदृष्टान्तः—पशुपाः पशूनां- पालकः पश्वः पशूनांयूथेव यूथानियथावर्तयतितद्वत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः