मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् ४

संहिता

तं व॒ इन्द्रं॑ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा॑ज॒यन्तो॑ हुवेम ।
यथा॑ चि॒त्पूर्वे॑ जरि॒तार॑ आ॒सुरने॑द्या अनव॒द्या अरि॑ष्टाः ॥

पदपाठः

तम् । वः॒ । इन्द्र॑म् । च॒तिन॑म् । अ॒स्य॒ । शा॒कैः । इ॒ह । नू॒नम् । वा॒ज॒ऽयन्तः॑ । हु॒वे॒म॒ ।
यथा॑ । चि॒त् । पूर्वे॑ । ज॒रि॒तारः॑ । आ॒सुः । अने॑द्याः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥

सायणभाष्यम्

नूनमद्य इहास्मिन्यज्ञे वाजयन्तः अन्नमिच्छन्तोवयं स्तोतारः शाकैः शक्तैः समर्थैः अस्य तवसहायैर्मरुद्भिः सहितं चतिनं शत्रूणांचा- तकं नाशकमित्यर्थः हेइन्द्र परमेश्वरं तंवः प्रसिद्धंत्वां हुवेम स्तुमः यथाचिद्यथैव पूर्वे पुरातनाः जरितारः स्तोतारः अनेद्याः अनिंद्याः अनवद्याः पापरहिताः अरिष्टाः अहिंसिताश्च आसुः बभूवुः हेइन्द्र त्वत्प्रसादाद्वयमपि तथैवभवेमेत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः