मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् ५

संहिता

धृ॒तव्र॑तो धन॒दाः सोम॑वृद्ध॒ः स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः ।
सं ज॑ग्मिरे प॒थ्या॒३॒॑ रायो॑ अस्मिन्त्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ॥

पदपाठः

धृ॒तऽव्र॑तः । ध॒न॒ऽदाः । सोम॑ऽवृद्धः । सः । हि । वा॒मस्य॑ । वसु॑नः । पु॒रु॒ऽक्षुः ।
सम् । ज॒ग्मि॒रे॒ । प॒थ्याः॑ । रायः॑ । अ॒स्मि॒न् । स॒मु॒द्रे । न । सिन्ध॑वः । याद॑मानाः ॥

सायणभाष्यम्

सहि सखल्विन्द्रः धृतव्रतोधनकर्मा धनदाः सएवधनप्रदः कीदृशस्यधनस्येत्याकांक्षायां उपसर्जनीभूतस्यापिधन्स्यविशेषणे वामस्य वसुनइति वामस्य वननीयस्य वसुनः श्रेष्ठस्य यद्वा वसुनोधनस्यस्वामीतिशेषः सोमवृद्धः सएवसोमेप्रवृद्धः पुरुक्षुः बह्वन्नः सएव अस्मि- न्निन्द्रएव पथ्याः स्तोतॄणांहितानि रायोधनानि संजग्मिरे संगच्छन्ते तत्रदृष्ठान्तः—सिन्धवोनद्यः समुद्रेन यथासमुद्रे यादमानाअभिगच्छ- न्तः तद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः