मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् ७

संहिता

यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस॑म् ।
येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं॑सी॒महि॑ जिगी॒वांस॒स्त्वोता॑ः ॥

पदपाठः

यः । ते॒ । मदः॑ । पृ॒त॒ना॒षाट् । अमृ॑ध्रः । इन्द्र॑ । तम् । नः॒ । आ । भ॒र॒ । शू॒शु॒ऽवांस॑म् ।
येन॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ । मं॒सी॒महि॑ । जि॒गी॒वांसः॑ । त्वाऽऊ॑ताः ॥

सायणभाष्यम्

पृतनाषाट् शत्रुसेनानामभिभविता अमृध्रः अहिंसितः योमदोहर्षः हेइन्द्र ते त्वयादेयः शूशुवांसं प्रवृद्धं तं मदं नोस्मभ्यमभराहर त्वो- तास्त्वयारक्षिताः जिगीवांसोजितवन्तोवयं तोकस्य् पुत्रस्य तनयस्य तत्पुत्रस्यच सातौ लाभेनिमित्तभूतेसति येनहर्षेण मंसीमहि त्वांस्तु- वीमहि तमाभरेतिपूर्वेणान्वयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः