मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् ८

संहिता

आ नो॑ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् ।
येन॒ वंसा॑म॒ पृत॑नासु॒ शत्रू॒न्तवो॒तिभि॑रु॒त जा॒मीँरजा॑मीन् ॥

पदपाठः

आ । नः॒ । भ॒र॒ । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ । ध॒न॒ऽस्पृत॑म् । शू॒शु॒ऽवांस॑म् । सु॒ऽदक्ष॑म् ।
येन॑ । वंसा॑म । पृत॑नासु । शत्रू॑न् । तव॑ । ऊ॒तिऽभिः॑ । उ॒त । जा॒मीन् । अजा॑मीन् ॥

सायणभाष्यम्

हेइन्द्र त्वं वृषणं वर्षितारं शुष्मं सेनालक्षणंबलं नोस्मभ्यं आभराहर कीदृशं धनस्पृतं धनस्यपालकं शूशुवांसं प्रवृद्धं सुदक्षं शोभनबलं हेइन्द्र तवोतिभिः त्वदीयाभीरक्षाभिः पृतनासु संग्रामेषु पृतनाइतिसंग्रामनाम येनबलेन शत्रून्वंसाम हनाम उतेत्यत्रभिन्नक्रमः जामीन् बन्धून् उतापिच अजामीन् शत्रूंश्च येनशुष्मेण वंसाम तंशुष्ममाभरेतिपूर्वेणसंबन्धः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः