मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् ९

संहिता

आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त् ।
आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥

पदपाठः

आ । ते॒ । शुष्मः॑ । वृ॒ष॒भः । ए॒तु॒ । प॒श्चात् । आ । उ॒त्त॒रात् । अ॒ध॒रात् । आ । पु॒रस्ता॑त् ।
आ । वि॒श्वतः॑ । अ॒भि । सम् । ए॒तु॒ । अ॒र्वाङ् । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

हेइन्द्र वृषभः वर्षिता ते त्वदीयं शुष्मोबलं अर्वाङस्मदभिमुखःसन् पश्चात् पश्चिमभागात् एतु आगच्छतु उत्तरादुत्तरभागादागच्छतु अधरा दक्षिणाच्चएतु पुरस्तात् पूर्वभागाच्चगच्छतु विश्वतः सर्वस्माद्दिग्भागात् अभि अस्मानभिलक्ष्यआसमेतु सम्यगागच्छतु हेइन्द्र त्वं स्वर्वत् सुखयुक्तं द्युम्नं धनं अस्मे अस्मभ्यं धेहि प्रयच्छ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः