मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् १०

संहिता

नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं॑सी॒महि॑ वा॒मं श्रोम॑तेभिः ।
ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त॑म् ॥

पदपाठः

नृ॒ऽवत् । ते॒ । इ॒न्द्र॒ । नृऽत॑माभिः । ऊ॒ती । वं॒सी॒महि॑ । वा॒मम् । श्रोम॑तेभिः ।
ईक्षे॑ । हि । वस्वः॑ । उ॒भय॑स्य । रा॒ज॒न् । धाः । रत्न॑म् । महि॑ । स्थू॒रम् । बृ॒हन्त॑म् ॥

सायणभाष्यम्

नृवत् मनुष्यैःपरिचारकजनैर्युक्तं श्रोमतेभिः श्रोतव्यैर्यशोभिः सहितं वामं वननीयंधनं हेइन्द्र ते त्वत्तः न्रुतमाभिः नेतृतमाभिः ऊती- ऊतिभीरक्षाभिः वंसीमहि वयंसंभजेमहि हियस्मात्कारणात् हेराजन् राजमानेन्द्र त्वं उभयस्य पार्थिवस्यदिव्यस्यच वस्वोधनस्य ईक्षे ईशिषे तस्मात् कारणात् महि महान्तं स्थूरं विपुलं बृहन्तं गुणैः परिवृढं रत्नं रमणीयं धनं अत्ररत्नशब्दःपुल्लिंगः धाः धेहि ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः