मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् १३

संहिता

व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रो॑ःशत्रो॒रुत्त॑र॒ इत्स्या॑म ।
घ्नन्तो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोता॑ः ॥

पदपाठः

व॒यम् । ते॒ । ए॒भिः । पु॒रु॒ऽहू॒त॒ । स॒ख्यैः । शत्रोः॑ऽशत्रोः । उत्ऽत॑रे । इत् । स्या॒म॒ ।
घ्नन्तः॑ । वृ॒त्राणि॑ । उ॒भया॑नि । शू॒र॒ । रा॒या । म॒दे॒म॒ । बृ॒ह॒ता । त्वाऽऊ॑ताः ॥

सायणभाष्यम्

हेपुरुहूत बहुभिराहूतेन्द्र एभिः सिद्धैः सख्यैः स्तोत्रलक्षणैः सखिकर्मभिः ते त्वयासहवयं उभयानि जामिरूपाण्यजामिरूपाणि वृत्रा- ण्यमित्राणि घ्रन्तः हिसन्तः शत्रोःशत्रोः सर्वस्माच्छत्रोउत्तरइत्स्याम अधिकाएवभवेम हेशूर विक्रान्तेन्द्र त्वोताः वयं त्वयारक्षिताःसन्तः बृहता महता राया धनेन मदेम हृष्याम ॥ १३ ॥

द्यौर्नयइन्द्रेतित्रयोदर्शर्चंपंचमंसूक्तं भरद्वाजस्यार्षमैन्द्रं त्रैष्टुभं विपिप्रोरित्येषासप्तमी दशाक्षरचतुष्टययुक्ताविराट् अनुक्रम्यतेच—द्यौर्न- विपिप्रोर्विराडिति पृष्ठ्यषडहस्यषष्ठेहनितृतीयसवने उक्थ्यस्तोत्राणि यदिद्विपदासुस्तुवीरन् यदिवाग्निष्टोमसंस्थः स्यात् तदानीं माध्यं- दिनसवने अच्छावाकः स्वशस्त्रे आरंभणीयाभ्यऊर्ध्वमेतत् सूक्तंशंसेत् सूत्रितंच—द्यौर्नयइन्द्रेत्यच्छावाकइति इदमेवसूक्तमिन्द्राविष्णोरु- क्त्रान्तिनाम्न्येकाहेनिष्केवल्यनिविद्धानं द्यौर्नयइन्द्रेतिमाध्यंदिनइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः