मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् २

संहिता

दि॒वो न तुभ्य॒मन्वि॑न्द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्व॑म् ।
अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥

पदपाठः

दि॒वः । न । तुभ्य॑म् । अनु॑ । इ॒न्द्र॒ । स॒त्रा । अ॒सु॒र्य॑म् । दे॒वेभिः॑ । धा॒यि॒ । विश्व॑म् ।
अहि॑म् । यत् । वृ॒त्रम् । अ॒पः । व॒व्रि॒ऽवांस॑म् । हन् । ऋ॒जी॒षि॒न् । विष्णु॑ना । स॒चा॒नः ॥

सायणभाष्यम्

दोवोन सूर्यायेव हेइन्द्र तुभ्यं सत्रासत्यमेव विश्वं व्याप्तं असुर्यमसुरत्वं बलं देवेभिः देवैः स्तोतृभिः अनुधायि व्यधायि अकारि स्तोत्रैः स्तूयमानोदवताबलवतीभवतीत्यर्थः हेऋजीषिन् विगतरससोमेन्द्र विष्णुनासचानः संगच्छमानस्त्वं षचसमवायेइतिधातोरूपं यद्येना- सूर्येण अपः उदकानि वव्रिवांसं परिवृण्वन्तं अहिमागत्यहन्तारं वृत्रमसुरं हन् अहन् अवधीः तद्बलं व्यधायीतिपूर्वेणसंबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः