मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् ३

संहिता

तूर्व॒न्नोजी॑यान्त॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेन्द्रो॑ वृ॒द्धम॑हाः ।
राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥

पदपाठः

तूर्व॑न् । ओजी॑यान् । त॒वसः॑ । तवी॑यान् । कृ॒तऽब्र॑ह्मा । इन्द्रः॑ । वृ॒द्धऽम॑हाः ।
राजा॑ । अ॒भ॒व॒त् । मधु॑नः । सो॒म्यस्य॑ । विश्वा॑साम् । यत् । पु॒राम् । द॒र्त्नुम् । आव॑त् ॥

सायणभाष्यम्

यद्यदा इन्द्रोविश्वासांसर्वासां पुरां असुरपुरीणां दर्त्नुं दारकंवज्रं आवत् प्रापत् तदा सोम्यस्य सोममयस्य मधुनः मधुररसस्य राजाभ- वत् स्वाम्यासीत् कीदृशः तूर्वन् हिंसकान् हिंसन् ओजीयान् अतिशयेनओजस्वी तवसोबलवतः तवीयान् बलवत्तरः कृतब्रह्मा कृतंब्रह्म स्तोत्रंयस्मैस्तोतृभिः सः अथवा कृतंदत्तंब्रह्मान्नंयेनस्तोतृभ्यःसः वृद्धमहाः वृद्धतेजाः एवंभूतइंद्रोराजाभवदिति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः