मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् ५

संहिता

म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्ण॑ः ।
उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्र॒ः कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥

पदपाठः

म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ । वज्र॑स्य । यत् । पत॑ने । पादि॑ । शुष्णः॑ ।
उ॒रु । सः । स॒ऽरथ॑म् । सार॑थये । कः॒ । इन्द्रः॑ । कुत्सा॑य । सूर्य॑स्य । सा॒तौ ॥

सायणभाष्यम्

यद्यदा शुष्णोसुरः वज्रस्यपतने पाते पादि अगच्छत् अम्रियतेत्यर्थः तदा महोमहतः द्रुहोद्रोग्धुः शुष्णस्य संबन्धि विश्वायु सर्वगतंबल- मितिशेषः अपधायि अपहितमकारि तिरस्कृतमित्यर्थः सइन्द्रः सारथये सारथिभूतायकुत्साय सरथं समानरथं सूर्यस्यसातौ भजने निमित्तभूते उरुविस्तीर्णंयथाभवतितथा कः अकरोत् तथाचोक्तं—कुत्सायेन्द्रोसुरंशुष्णंजिघांसुः कुत्समात्मनः । सारथिंकल्पयित्बास्यश- त्रुशुष्णमहंस्ततः ॥ कुत्सस्यरक्षांबहुलांचकारेत्यनयोच्यतेइति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः