मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् ६

संहिता

प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।
प्राव॒न्नमीं॑ सा॒प्यं स॒सन्तं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥

पदपाठः

प्र । श्ये॒नः । न । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् ।
प्र । आ॒व॒त् । नमी॑म् । सा॒प्यम् । स॒सन्त॑म् । पृ॒णक् । रा॒या । सम् । इ॒षा । सम् । स्व॒स्ति ॥

सायणभाष्यम्

श्येनः सुपर्णश्चनेत्ययंशब्दःसमुच्चयेवर्तते अस्माइन्द्राय मदिरं मदकरंअंशुं सोमं प्रेति आइत्यस्यार्थेवर्तते आहरत् उपसर्गदर्शनाच्चाख्या- तमध्यह्रियते किंचायमिन्द्रोपि दासस्य प्राणिनामुपक्षपयितुर्नमुचेरेतन्नामासुरस्य शिरःशीर्षं मथायन् मंथनंकुर्वन् साप्यं सपस्यपुत्रं ससन्तं स्वपन्तं नमीं एतत्संज्ञकमृषिं प्रावत् प्रारक्षत् स्वस्त्यविनाशेन राया पश्वादिधनेन इषान्नेन च तमृषिं संपृणक् समयोजयत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०