मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् ७

संहिता

वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रि॒ञ्छव॑सा॒ न द॑र्दः ।
सुदा॑म॒न्तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥

पदपाठः

वि । पिप्रोः॑ । अहि॑ऽमायस्य । दृ॒ळ्हाः । पुरः॑ । व॒ज्रि॒न् । शव॑सा । न । द॒र्द॒रिति॑ दर्दः ।
सुऽदा॑मन् । तत् । रेक्णः॑ । अ॒प्र॒ऽमृ॒ष्यम् । ऋ॒जिश्व॑ने । दा॒त्रम् । दा॒शुषे॑ । दाः॒ ॥

सायणभाष्यम्

हेवज्रिन् वज्रवन्निन्द्र त्वं अहिमायस्य अहंत्र्योमायायस्य पिप्रोरेतन्नाम्नोसुरस्यसंबन्धिनीः दृह्ळाः दृढानि पुरः प्राकारादीनिदुर्गाणि शवसा बलेन विदर्दः विदारितवानसि नेतिपादपूरणः त्वंपिप्रोर्नृमणःप्रारुजःपुरः । शतंपूर्भिरायसीभिर्निपाहीतिदर्शनात् । अपिच हेसुदा- मन् शोभनदानेन्द्र त्वं दात्रं हविर्लक्षणं धनं दाशुषे दत्तवते ऋजिश्वने एतन्नामकायराजर्षये अप्रमृष्यं केनाप्यबाध्यं तत्तस्यस्व भूतंरेक्णो- धनं दाः अदाः दत्तवानसि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०