मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् ८

संहिता

स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिन्द्र॑ः स्वभि॒ष्टिसु॑म्नः ।
आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥

पदपाठः

सः । वे॒त॒सुम् । दश॑ऽमायम् । दश॑ऽओणिम् । तूतु॑जिम् । इन्द्रः॑ । स्व॒भि॒ष्टिऽसु॑म्नः ।
आ । तुग्र॑म् । शश्व॑त् । इभ॑म् । द्योत॑नाय । मा॒तुः । न । सी॒म् । उप॑ । सृ॒ज॒ । इ॒यध्यै॑ ॥

सायणभाष्यम्

स्वभिष्टिसुम्रः सुष्द्टुअभ्येषणीयान्यभिगम्यानिसुम्रानिसुखानियेनदेयानिसइन्द्रः दशमायं बहुवंचनं वेतसुं वेतसुनामकमसुरं दशोणिं एतन्नामकंच तूतुजिं तूतुजिनामकंच आअपिच तुग्रं तुग्रनामकमसुरं तथा इभमेतन्नामकमसुरंच इयध्यै एतुं द्योतनाय एतत्संज्ञायराज्ञे श- श्वदुपसृजउपासृजत् वशीचकार तत्रदृष्टान्तः—मातुर्न मातुर्जनन्याइव पुत्रं यथामात्रेपुत्रावशीभवन्तितद्वद्वशंचकारेत्यर्थः सीमितिपाद- पूरणः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०