मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् ९

संहिता

स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ ।
तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इन्द्र॑मृ॒ष्वम् ॥

पदपाठः

सः । ई॒म् । स्पृधः॑ । व॒न॒ते॒ । अप्र॑तिऽइतः । बिभ्र॑त् । वज्र॑म् । वृ॒त्र॒ऽहन॑म् । गभ॑स्तौ ।
तिष्ठ॑त् । हरी॒ इति॑ । अधि॑ । अस्ता॑ऽइव । गर्ते॑ । व॒चः॒ऽयुजा॑ । व॒ह॒तः॒ । इन्द्र॑म् । ऋ॒ष्वम् ॥

सायणभाष्यम्

गभस्तौ हस्ते वृत्रहणं वृत्राणांशत्रूणांहन्तारं वज्रं स्वकीयमायुधं बिभ्रद्धारयन् अप्रतीतः शत्रुभिरप्रतिगतः सइन्द्रः स्पृधः स्पर्धमानान् ईं इमान् वृत्रप्रभृतीन् शत्रून् वनते हन्ति हरी स्वकीयावश्वौ अधितिष्ठत् आरोहति तत्रदृष्टान्तः—अस्तेव गर्तेयथाक्षेप्ताशूरः रथेअधितिष्ठ- त् तद्वत् तथावचोयुजा वचोमात्रेणयुज्यमानौ यद्वा स्तोतॄणां स्तुतिभिः युज्यमानौ तौ हरीच ऋष्वं महान्तं इन्द्रं वहतः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०