मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् १०

संहिता

स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः ।
स॒प्त यत्पुर॒ः शर्म॒ शार॑दी॒र्दर्द्धन्दासी॑ः पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥

पदपाठः

स॒नेम॑ । ते॒ । अव॑सा । नव्यः॑ । इ॒न्द्र॒ । प्र । पू॒रवः॑ । स्त॒व॒न्ते॒ । ए॒ना । य॒ज्ञैः ।
स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् । हन् । दासीः॑ । पु॒रु॒ऽकुत्सा॑य । शिक्ष॑न् ॥

सायणभाष्यम्

हेइन्द्र ते त्वदीयेन अवसा रक्षणेन नव्योनवीयोनवतरं त्वयादीयमानंधनं सनेम वयंस्तो तारोभजेमहि पूरवोमनुष्याः स्तोतारः एना अनेनस्तोत्रेण युक्तैर्यज्ञैः प्रस्तवन्ते त्वांस्तुवन्ति यद्यस्मात्कारणात् दासीः कर्मणामुपक्षपयित्रीः शत्रुप्रजाः हन् घ्नन् हिंसन् पुरुकुत्साय एत- न्नामकायराज्ञे शिक्षन् धनानिप्रयच्छन् हेइन्द्र त्वं शारदीः शरन्नाम्नोसुरस्यसंबन्धिनीः सप्त सप्तसंख्याकाः पुरः पुरी शर्म शर्मणावज्रेण दर्त् विदारितवानसि तस्मात्कारणात्त्वांस्तोतारः स्तुवन्तीत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०