मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् ११

संहिता

त्वं वृ॒ध इ॑न्द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑ ।
परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तम् ॥

पदपाठः

त्वम् । वृ॒धः । इ॒न्द्र॒ । पू॒र्व्यः । भूः॒ । व॒रि॒व॒स्यन् । उ॒शने॑ । का॒व्याय॑ ।
परा॑ । नव॑ऽवास्त्वम् । अ॒नु॒ऽदेय॑म् । म॒हे । पि॒त्रे । द॒दा॒थ॒ । स्वम् । नपा॑तम् ॥

सायणभाष्यम्

हेइन्द्र पूर्व्यः पुरातनस्त्वं काव्याय कविपुत्राय उशने उशनसे भार्गवाय वरिवस्यन् धनमिच्छन् वृधोभूः स्तोतॄणांवर्धकोभवसि अनुदे- यमनुदातव्यंधनं नववास्त्वं एतन्नामकंअसुरं पराहत्य स्वंस्वकीयमौशनसं नपातं युद्धेशत्रुभिर्ग्रुहीतंपुत्रं महे महते पित्रे पालयितव्यायोश- नसे पराददाथ तस्यशत्रुंहत्वा प्रकर्षेणदत्तवानसि ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०