मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् १

संहिता

इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवन्ते ।
धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥

पदपाठः

इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒ऽतम॑स्य । का॒रोः । हव्य॑म् । वी॒र॒ । हव्याः॑ । ह॒व॒न्ते॒ ।
धियः॑ । र॒थे॒ऽस्थाम् । अ॒जर॑म् । नवी॑यः । र॒यिः । विऽभू॑तिः । ई॒य॒ते॒ । व॒च॒स्या ॥

सायणभाष्यम्

पुरुतमस्य बहुलंकामंकांक्षतः तमुअभिकांक्षायामितिधातुः कारोः स्तोतुर्भरद्वाजस्यसंबन्धिन्यः हव्याः स्तुत्याः प्रशस्याः इमाधियः स्तुतयः हेवीर शूरेन्द्र हव्यं त्वा त्वां हवंते ह्वयन्ति कीदृशं रथेस्थां रथेस्थितं अजरं जरारहितं नवीयोनवीयांसं नवतरं उइतिपूरणःअपि- च वचस्या स्तुत्या श्रेष्ठाविभूतिः जगतोविभव्हेतुः रयिर्हविर्लक्षणंधनं ईयते त्वामभिगच्छति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११