मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् २

संहिता

तमु॑ स्तुष॒ इन्द्रं॒ यो विदा॑नो॒ गिर्वा॑हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् ।
यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ॥

पदपाठः

तम् । ऊं॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । यः । विदा॑नः । गिर्वा॑हसम् । गीः॒ऽभिः । य॒ज्ञऽवृ॑द्धम् ।
यस्य॑ । दिव॑म् । अति॑ । म॒ह्ना । पृ॒थि॒व्याः । पु॒रु॒ऽमा॒यस्य॑ । रि॒रि॒चे । म॒हि॒ऽत्वम् ॥

सायणभाष्यम्

यइन्द्रः विदानः सर्वंविद्वान् सर्वैर्ज्ञायमानोवा गिर्वाहसं गीर्भिर्वहनीयं यज्ञवृद्धं यज्ञैः प्रवृद्धं तमु तमेवेन्द्रं स्तुषे स्तुवे पुरुमायस्य बहुप्र- ज्ञस्य बहुवचनस्यवा यस्येन्द्रस्य महित्वं माहात्म्यं दिवं दिवोद्युलोकात् पंचम्यर्थेद्वितीया पृथिव्याः भूलोकात् मह्ना महिम्ना अतिरिरिचे अतिरिच्यते तंस्तुवइतिसंबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११