मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् ३

संहिता

स इत्तमो॑ऽवयु॒नं त॑त॒न्वत्सूर्ये॑ण व॒युन॑वच्चकार ।
क॒दा ते॒ मर्ता॑ अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ॥

पदपाठः

सः । इत् । तमः॑ । अ॒व॒यु॒नम् । त॒त॒न्वत् । सूर्ये॑ण । व॒युन॑ऽवत् । च॒का॒र॒ ।
क॒दा । ते॒ । मर्ताः॑ । अ॒मृत॑स्य । धाम॑ । इय॑क्षन्तः । न । मि॒न॒न्ति॒ । स्व॒धा॒ऽवः॒ ॥

सायणभाष्यम्

सइत् सएवेन्द्रः अवयुनं अपज्ञानं प्रज्ञाननाशनमित्यर्थः ततन्वत् वृत्रेणविस्तीर्यमाणंतमोन्धकारं दिविसूर्येण दिव्यारोपितेमदेवेन वयुनवत् प्रकाशवत् चकार कृतवान् परोर्धर्चःप्रत्यक्षकृतः हेस्वधावः बलवन्निन्द्र मर्ताः मनुष्याः अमृतस्य नित्यस्य तेत्वदीयं धामस्वर्गा- ख्यंस्थानं तत्रस्थान् देवानित्यर्थः इयक्षंतः यष्टुमिच्छन्तः कदा कदाचित् सर्वदेत्यर्थः नमिनन्ति किमपिप्राणिजातंनहिंसन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११