मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् ४

संहिता

यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्र॒ः कमा जनं॑ चरति॒ कासु॑ वि॒क्षु ।
कस्ते॑ य॒ज्ञो मन॑से॒ शं वरा॑य॒ को अ॒र्क इ॑न्द्र कत॒मः स होता॑ ॥

पदपाठः

यः । ता । च॒कार॑ । सः । कुह॑ । स्वि॒त् । इन्द्रः॑ । कम् । आ । जन॑म् । च॒र॒ति॒ । कासु॑ । वि॒क्षु ।
कः । ते॒ । य॒ज्ञः । मन॑से । शम् । वरा॑य । कः । अ॒र्कः । इ॒न्द्र॒ । क॒त॒मः । सः । होता॑ ॥

सायणभाष्यम्

यइन्द्रः ता तान्युक्तप्रसिद्धानि वृत्रवधादीनिकर्माणि चकार अकरोत् सइन्द्रोद्यकुहस्वित् क्वस्विद्वर्तते कंजनं कमपिदेशमाचरति कासु विक्षु प्रजासु वर्तते इतीन्द्रस्य विभूतिमहत्त्वान्ननिश्चेतुंशक्यं अथप्रत्यक्षस्तुतिः हेइन्द्र कः कीदृशोयज्ञः ते तव मनसे चेतसे शं सुखकरोभव- ति वराय तववरणाय कः कीदृशोर्कोमंत्रः समर्थोभवति होता आह्वाता तववरणाय यःसमर्थोभवति सहोता कतमश्च भवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११