मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् ५

संहिता

इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः ।
ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥

पदपाठः

इ॒दा । हि । ते॒ । वेवि॑षतः । पु॒रा॒ऽजाः । प्र॒त्नासः॑ । आ॒सुः । पु॒रु॒ऽकृ॒त् । सखा॑यः ।
ये । म॒ध्य॒मासः॑ । उ॒त । नूत॑नासः । उ॒त । अ॒व॒मस्य॑ । पु॒रु॒ऽहू॒त॒ । बो॒धि॒ ॥

सायणभाष्यम्

पुराजाः पूर्वस्मिन्कालेजाताः प्रत्नासः पुराणाः अंगिरःप्रभृतयः इदाहि इदानीमिव हिशद्बउपमार्थेवर्तते वेविषतः कर्माणिप्राप्नुवन्तः हेपुरुकृत् बहूनांकर्मणांकर्तरिन्द्र ते तव सखायाः स्तोतारः आसुः बभूवुः येमध्यमासोमध्यमकालजाः उतापिच येनूतनासोद्यतनाः यत- स्तेपिसर्वे तेस्तोतारोबभूवुः अतः कारणात् उतापिच येनूतनासोद्यतनाः यतस्तेपिसर्वे तेस्तोतारोबभूवुः अतःकारणात् उतापिच अव- मस्यार्वाचीनस्य ममापिस्तोत्रं हेपुरुहूत बहुभिराहूतेन्द्र त्वंबोधि बुध्यस्व ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११