मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् ६

संहिता

तं पृ॒च्छन्तोऽव॑रास॒ः परा॑णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः ।
अर्चा॑मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा॑ म॒हान्त॑म् ॥

पदपाठः

तम् । पृ॒च्छन्तः॑ । अव॑रासः । परा॑णि । प्र॒त्ना । ते॒ । इ॒न्द्र॒ । श्रुत्या॑ । अनु॑ । ये॒मुः॒ ।
अर्चा॑मसि । वी॒र॒ । ब्र॒ह्म॒ऽवा॒हः॒ । यात् । ए॒व । वि॒द्म । तात् । त्वा॒ । म॒हान्त॑म् ॥

सायणभाष्यम्

हेवीर शूर ब्रह्मवाहः ब्रह्मभिर्मंत्रैर्वहनीयेन्द्र अवरासोर्वाचीनामनुष्याः तंउक्तगुणोपेतं त्वां पृच्छंतोर्चन्तः पृच्छतिरर्चतिकर्मा पराणि प्रकृष्टानि प्रत्ना प्रत्नानि पुराणानि श्रुत्या श्रुत्यानिश्रोतव्यानि ते त्वदीयानिकर्माणि अनुयेमुः अनुयमनंनिबन्धनंस्तुतिरूपाभिर्वाग्भिर्नि- बबन्धुः तथा वयमपि महान्तं प्रभूतं त्वा त्वां अर्चामसि अर्चमःस्तुमः यादेव यान्येवकर्माणि विद्मजानीमः तत् तैःकर्मभिः स्तमइतिसं- बन्धः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२