मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् १०

संहिता

इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो॑ अ॒भ्य॑र्चन्त्य॒र्कैः ।
श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ॑ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ॥

पदपाठः

इ॒मे । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒ऽशा॒क॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो । ज॒रि॒तारः॑ । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
श्रु॒धि । हव॑म् । आ । हु॒व॒तः । हु॒वा॒नः । न । त्वाऽवा॑न् । अ॒न्यः । अ॒मृ॒त॒ । त्वत् । अ॒स्ति॒ ॥

सायणभाष्यम्

हेपुरुशाक बहुशक्ते हेप्रयज्यो प्रकृष्टेनयजनीयेन्द्र त्वा त्वां इमे जरितारः स्तोतारः अर्कैरर्चनीयैःस्तोत्रैः अभ्यर्चन्ति अभिष्टुवन्ति तथा हेअमृत अमरणशीलेन्द्र हुवानः स्तूयमानस्त्वं आहुवतोभिष्टुवतोमम हवं स्तोत्रं श्रुधि श्रृणु किंच त्वावान् त्वत्सदृशोदेवः त्वदन्योनास्ति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२