मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् ११

संहिता

नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे॑भिः सूनो सहसो॒ यज॑त्रैः ।
ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं॑ च॒क्रुरुप॑रं॒ दसा॑य ॥

पदपाठः

नु । मे॒ । आ । वाच॑म् । उप॑ । या॒हि॒ । वि॒द्वान् । विश्वे॑भिः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यज॑त्रैः ।
ये । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽसापः॑ । आ॒सुः । ये । मनु॑म् । च॒क्रुः । उप॑रम् । दसा॑य ॥

सायणभाष्यम्

इयंचवैश्वदेवीत्युक्तं हेसहसःसूनो बलस्यपुत्रेन्द्र विद्वान् सर्वज्ञस्त्वं यजत्रैर्यजनीयैर्विश्वेभिःसर्वैःदेवैःसह नु क्षिप्रं मे मदीयाः वाचः स्तुति- रूपाणिवचांसि उप अभिआयाहि आगच्छ एवंभूतमिन्द्रंपार्थयते ऎन्द्रत्वात्सूक्तस्य येदेवाः अग्निजिह्वाः अग्निर्जिह्वास्थानीयोयेषां ते ऋतसापः ऋतंयज्ञंस्पृशन्तःआसुर्भवन्ति येच देवाः दसायशत्रूणामुपक्षेपणाय मनु राजर्षिं उपरं दस्यूनामुपरिभवं चक्रुः कृतवन्तः तैः सहागच्छेतिपूर्वेणसंबन्धः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२