स नो॑ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा॑नः ।
ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि॑र्न इन्द्रा॒भि व॑क्षि॒ वाज॑म् ॥
सः । नः॒ । बो॒धि॒ । पु॒रः॒ऽए॒ता । सु॒ऽगेषु॑ । उ॒त । दुः॒ऽगेषु॑ । प॒थि॒ऽकृत् । विदा॑नः ।
ये । अश्र॑मासः । उ॒रवः॑ । वहि॑ष्ठाः । तेभिः॑ । नः॒ । इ॒न्द्र॒ । अ॒भि । व॒क्षि॒ । वाज॑म् ॥
हेइन्द्र पथिकृद्वर्त्मनांकर्ता विदानः सर्वंविद्वान् सत्वं सुगेषु सुखेनगन्तव्येषु उतापिच दुर्गेषु दुःखेनगन्तव्येषुचमागेषु नोस्माकं पुरएता पुरोगन्ता बोधि भव बोधीतिभवतेर्लोण्मध्यमपुरुषैकवचनस्यछान्दसंरूपं अश्रमासः श्रमरहिताः उरवो महान्तः वहिष्टाः वोढृतमाः तव येअश्वाः सन्ति हेइन्द्र तेभिः तैरश्वैः नोस्मभ्यं वाजमन्नंअभिवक्षि अभिवह ॥ १२ ॥
यएकदित्येकादशर्चंसप्तमंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रान्तं—यएकइदेकादशेति आभिप्लविकेप्रथमेहनिदशरात्रस्यप्रथमे- हनिच माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे अहीनसूक्तस्यस्थाने त्रीणिसंपातसूक्तानि तेष्विदंद्वितीयंसूक्तं सूत्रितंच—यएकइद्यस्तिग्मश्रृंग- इति उपहव्यनाम्न्येकाहेपीदं निष्केवल्यनिविद्धानं सूत्रितंच—यएकइदिति मध्यंदिनइति ।