मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् २

संहिता

तमु॑ न॒ः पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः ।
न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभि॒ः शवि॑ष्ठम् ॥

पदपाठः

तम् । ऊं॒ इति॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । नव॑ऽग्वाः । स॒प्त । विप्रा॑सः । अ॒भि । वा॒जय॑न्तः ।
न॒क्ष॒त्ऽदा॒भम् । ततु॑रिम् । प॒र्व॒ते॒ऽस्थाम् । अद्रो॑घऽवाचम् । म॒तिऽभिः॑ । शवि॑ष्ठम् ॥

सायणभाष्यम्

पूर्वेप्रत्नाः नवग्वाः नवभिर्मासैः सत्रमनुष्ठितवन्तः सप्तसप्तसंख्याकाः विप्रासः विप्रामेधाविनः वाजयन्तः वाजमन्नंहविर्लक्षणमिन्द्रस्य- कुर्वन्तः इन्द्रंवा वाजिनंबलिनंकुर्वन्तः तत्करोतीतिणिच् एवंभूतानोस्माकं पितरोंगिरसः तमु तमेवेन्द्रं मतिभिः स्तुतिभिरभितुष्टुवुरिति- शेषः कीदृशं नक्षद्दाभं नक्षतिर्गतिकर्मा अभिगच्छतां शत्रूणां दंभितारं हिंसितारं ततुरिं तरितारं पर्वतेष्ठां पर्ततेष्ववस्थितं अद्रोघवाचं अद्रोग्धव्याअनतिक्रमणीयावागाज्ञारूपायस्यतं शविष्ठं बलवत्तमं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३