मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् ३

संहिता

तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः ।
यो अस्कृ॑धोयुर॒जर॒ः स्व॑र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥

पदपाठः

तम् । ई॒म॒हे॒ । इन्द्र॑म् । अ॒स्य॒ । रा॒यः । पु॒रु॒ऽवीर॑स्य । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः ।
यः । अस्कृ॑धोयुः । अ॒जरः॑ । स्वः॑ऽवान् । तम् । आ । भ॒र॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥

सायणभाष्यम्

पुरुवीरस्य बहुपुत्रपौत्रयुक्तस्य नृवतः परिचारकजनसहितस्य पुरुक्षोर्बह्वन्नस्य बहुपशोर्वा अस्यरायः इदंधनं द्वितीयार्थेषष्ठी तमिन्द्रं ईमहे याचामहे योरयिः अस्कृधोयुः अविच्छिन्नः अजरोजराहानिरहितः स्वर्वान् सुखयुक्तः हेहरिवः हरिवन् स्वकीयाश्वोपेतेन्द्र त्वं तं रयिं मादयध्यै अस्मान्मादयितुं आभराहर ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३