मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् ४

संहिता

तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र ।
कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्व॒ः पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥

पदपाठः

तत् । नः॒ । वि । वो॒चः॒ । यदि॑ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तारः॑ । आ॒न॒शुः । सु॒म्नम् । इ॒न्द्र॒ ।
कः । ते॒ । भा॒गः । किम् । वयः॑ । दु॒ध्र॒ । खि॒द्वः॒ । पुरु॑ऽहूत । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । अ॒सु॒र॒ऽघ्नः ॥

सायणभाष्यम्

हेइन्द्र यदि यत् ते तव पुराचित् पूर्वस्मिन्काले जरितारः स्तोतारः सुम्नं सुखआनशुः प्रापुः तत् तत्सुखं नोस्माकं विवोचः विब्रूहि हेदुध्र दुर्धर हेखिद्वःशत्रूणांखेदयितः हेपुरुहूत हेपुरुवसोइन्द्र असुरघ्न असुराणांहन्तुस्तेतवयज्ञेषु कोभागःकॢप्तः वयः हविर्लक्षणमन्नंकिं- कॢप्तं यदि केचिच्चिरंतनाः पूर्वकालेपि त्वत्तःसकाशात् सुखं लेभिरे तर्ह्यहमपि तत्सुखंलप्स्यइतिविचार्यसुखप्राप्तिविलंबोममासोढव्यो- भवेदित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३