मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् ५

संहिता

तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः ।
तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥

पदपाठः

तम् । पृ॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थाम् । इन्द्र॑म् । वेपी॑ । वक्व॑री । यस्य॑ । नु । गीः ।
तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भः॒ऽदाम् । गा॒तुम् । इ॒षे॒ । नक्ष॑ते । तुम्र॑म् । अच्छ॑ ॥

सायणभाष्यम्

पूर्वयोपालब्धइन्द्र ऋषये कामान्प्रायच्छत् ततःसकामपूर्णऋषिराह वज्रहस्तं वज्रपाणिं रथेष्ठां रथेस्थितं तमिन्द्रं पृच्छन्ती अर्चयन्ती पृच्छतिरर्चतिकर्मा वेपी वेपोयागादिलक्षणंकर्म तद्वती वक्वरीगुणानांवत्र्क्रीगीः ईदृशीस्तुतिर्यस्ययजमानस्यभवति कीदृशमिन्द्रं पृच्छन्ती तुविग्राभं तुवीनांबहूनांग्रहीतारं तुविकूर्मिं बहुकर्माणं रभोदां रभसोबलस्यदातारं नुइतिपूरणः सयजमानः गातुं सुखं इषेगच्छति किंच तुम्रं म्लापयितारं शत्रुं अच्छाभिमुखं नक्षते गच्छति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३