मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् ७

संहिता

तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑ ।
स नो॑ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥

पदपाठः

तम् । वः॒ । धि॒या । नव्य॑स्या । शवि॑ष्ठम् । प्र॒त्नम् । प्र॒त्न॒ऽवत् । प॒रि॒ऽतं॒स॒यध्यै॑ ।
सः । नः॒ । व॒क्ष॒त् । अ॒नि॒ऽमा॒नः । सु॒ऽवह्ना॑ । इन्द्रः॑ । विश्वा॑नि । अति॑ । दुः॒ऽगहा॑नि ॥

सायणभाष्यम्

नव्यस्या नवतरया धिया स्तुत्या शविष्ठं बलवत्तमं प्रत्नं पुराणं हेइन्द्र तंवस्त्वां प्रत्नवत् चिरंतनाऋषयइव परितोविस्तारयितुं अहंप्र- वृत्तोस्मीतिशेषः अनिमानः अपरिमाणः सुवह्ना शोभनवहनः सइन्द्रः विश्वानि समस्तानि दुर्गहाणि दुर्गाणि नोस्मभ्यं अतिवक्षदतिवहतु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४