मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् ८

संहिता

आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा ।
तपा॑ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥

पदपाठः

आ । जना॑य । द्रुह्व॑णे । पार्थि॑वानि । दि॒व्यानि॑ । दी॒प॒यः॒ । अ॒न्तरि॑क्षा ।
तप॑ । वृ॒ष॒न् । वि॒श्वतः॑ । शो॒चिषा॑ । तान् । ब्र॒ह्म॒ऽद्विषे॑ । शो॒च॒य॒ । क्षाम् । अ॒पः । च॒ ॥

सायणभाष्यम्

हेइन्द्र त्वं द्रुह्वणे साधुजनानांद्रोग्धुर्जनायजनस्यराक्षसादेः षष्ठ्यर्थेचतुर्थी पार्थिवानि पृथिव्यांभवानि दिव्यानि दिविभवानि अन्त- रिक्षा अन्तरिक्षेभवानि च स्थानानि आदीपयः आसमंतात्तापय हेवृषन् कामानांवार्षितरिन्द्र त्वं विश्वतः सर्वतोविद्यमानान् तान् राक्ष- सादीन् शोचिषा त्वदीययादीप्त्या तप दह किंच ब्रह्मद्विषे ब्राह्मणद्वेष्ट्रे राक्षसादये ब्रह्मद्विषंदग्धुमित्यर्थः क्षां पृथिवीं अपश्चान्तरिक्षं शोचय दीपय आपइत्यन्तरिक्षनामैतत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४