मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् ९

संहिता

भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् ।
धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥

पदपाठः

भुवः॑ । जन॑स्य । दि॒व्यस्य॑ । राजा॑ । पार्थि॑वस्य । जग॑तः । त्वे॒ष॒ऽस॒न्दृ॒क् ।
धि॒ष्व । वज्र॑म् । दक्षि॑णे । इ॒न्द्र॒ । हस्ते॑ । विश्वा॑ । अ॒जु॒र्य॒ । द॒य॒से॒ । वि । मा॒याः ॥

सायणभाष्यम्

हेत्वेषसंदृक् दीप्तदर्शनेन्द्र दिव्यस्य दिविभवस्य जनस्य राजा ईश्वरोभुवोभवसि जगतोजंगमस्य पार्थिवस्यच राजा भवसि दक्षिणे हस्ते वज्रं धिष्व निधेहि तेनवज्रेण विश्वाः सर्वाआसुरीर्मायाः विदयसे विबाधसे दयदानगतिहिंसारक्षणेष्वितिधातुः हेइन्द्र अजुर्य जर- यितुमशक्येन्द्र त्वमिति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४