मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् १०

संहिता

आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्राम् ।
यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ॥

पदपाठः

आ । स॒म्ऽयत॑म् । इ॒न्द्र॒ । नः॒ । स्व॒स्तिम् । श॒त्रु॒ऽतूर्या॑य । बृ॒ह॒तीम् । अमृ॑ध्राम् ।
यया॑ । दासा॑नि । आर्या॑णि । वृ॒त्रा । करः॑ । व॒ज्रि॒न् । सु॒ऽतुका॑ । नाहु॑षाणि ॥

सायणभाष्यम्

हेइन्द्र शत्रुतूर्याय शत्रूणांतारणाय बृहतीं महतीं अमृध्रां अहिंसितां संयतं संयतीं संगच्छमानां स्वस्तिं क्षेमलक्षणां संपदं हेइन्द्र नोस्म- भ्यमाभर हेवज्रिन् वज्रवन्निंद्र ययास्वस्त्या दासानि कर्महीनानिमनुष्यजातानि आर्याणि कर्मयुक्तानि करः अकरोः नाहुषाणि मनुष्य- संबन्धीनि नहुषाइतिमनुष्यनामैतत् वृत्रा वृत्राणि शत्रून् सुतुका सुतुकानि शोभनहिंसोपेतान्यकरोः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४