मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् ११

संहिता

स नो॑ नि॒युद्भि॑ः पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो ।
न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ॥

पदपाठः

सः । नः॒ । नि॒युत्ऽभिः॑ । पु॒रु॒ऽहू॒त॒ । वे॒धः॒ । वि॒श्वऽवा॑राभिः । आ । ग॒हि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ।
न । याः । अदे॑वः । वर॑ते । न । दे॒वः । आ । आ॒भिः॒ । या॒हि॒ । तूय॑म् । आ । म॒द्र्य॒द्रिक् ॥

सायणभाष्यम्

हेपुरुहूत हेवेधोविधातः हेप्रयज्यो प्रकृष्टेनयजनीयेन्द्र सत्वं विश्ववाराभिः विश्वैर्वरणीयाभिः संभजनीयाभिः नियुद्भिरश्वैर्नोस्मानाग- ह्यागच्छ अदेवोसुरः यानियुतःयानश्वान्नवरते नवारयति देवश्च नवरते आभिर्नियुद्भिः तूयमाक्षिप्रमेव मद्भ्यद्रिक् मदभिमुखःसन् आया- ह्यागच्छ अद्भ्यागमस्यद्विर्वचनंछान्दसं ॥ ११ ॥

सुतइदितिदशर्चमष्टमंसूक्तं भरद्वाजस्यर्षं त्रैष्टुभमैन्द्रं सुतइद्दशेत्यनुक्रान्तं विषुवतिनिष्केवल्येइदंसूक्तं सूत्रितंच—सुतइत्त्वमेषप्रपूर्वीरि- ति । महाव्रतेपिनिष्केवल्येइदमादीनित्रीणिसूक्तानि तथैवपंचमारण्यकेसूत्रितं—सुतइत्त्वं निमिश्लइन्द्रसोमइतित्रीणीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४