मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २३, ऋक् ३

संहिता

पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती ।
कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥

पदपाठः

पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । प्र॒ऽने॒नीः । उ॒ग्रः । ज॒रि॒तार॑म् । ऊ॒ती ।
कर्ता॑ । वी॒राय॑ । सुस्व॑ये । ऊं॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । स्तु॒व॒ते । की॒रये॑ । चि॒त् ॥

सायणभाष्यम्

इन्द्रः सुतमभिषुतंसोमं पातास्तु पानशीलोभवतु तृन्नन्तत्वान्नलोकाव्ययनिष्ठेतिषष्ठीप्रतिषेधार्थः कीदृशः ऊती ऊत्यामार्गेण जरितारं स्तोतारं प्रणेनीः प्रकर्षेणनेता उग्रः उद्गूर्णः वीराय यज्ञादिकर्मसुदक्षाय सुस्वये सोमाभिषवंकुर्वतेयजमानाय लोकं स्थानं कर्तादातेत्यर्थः उइतिपादपूरणः स्तुवेत स्तोत्रंकुर्वते कीरयोचित् चिदितिचार्थेस्तोत्रेच कीरिरितिस्तोतृनामैतत् वसु धनंदातास्तु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५