मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २३, ऋक् ४

संहिता

गन्तेया॑न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं॑ प॒पिः सोमं॑ द॒दिर्गाः ।
कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥

पदपाठः

गन्ता॑ । इय॑न्ति । सव॑ना । हरि॑ऽभ्याम् । ब॒भ्रिः । वज्र॑म् । प॒पिः । सोम॑म् । द॒दिः । गाः ।
कर्ता॑ । वी॒रम् । नर्य॑म् । सर्व॑ऽवीरम् । श्रोता॑ । हव॑म् । गृ॒ण॒तः । स्तोम॑ऽवाहाः ॥

सायणभाष्यम्

इन्द्रः हरिभ्यां स्वकीयाभ्यां इयन्ति हृदयस्थानानि त्रीणि सवना सवनानि गन्ता गमनशीलोभवतु कीदृशः वज्रं स्वकीयमयुधं बभ्रि- र्भर्ता धारकः सोममभिषुतं पपिः पाता गाः ददिर्दाता नर्यं मनुष्यहितं सर्ववीरं बहुपुत्रोपेतं वीरं पुत्रं कर्ता यजमानाय दाता गृणतः स्तुवतः स्तोतुः संबन्धि हवं स्तोत्रं श्रोताश्रावकः स्तोमवाहाः स्तोमैः स्तोत्रैर्वहनीयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५