मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २३, ऋक् ६

संहिता

ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इन्द्र म॒तिभि॑र्विविष्मः ।
सु॒ते सोमे॑ सुतपा॒ः शंत॑मानि॒ राण्ड्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ॥

पदपाठः

ब्रह्मा॑णि । हि । च॒कृ॒षे । वर्ध॑नानि । ताव॑त् । ते॒ । इ॒न्द्र॒ । म॒तिऽभिः॑ । वि॒वि॒ष्मः॒ ।
सु॒ते । सोमे॑ । सु॒त॒ऽपाः॒ । शम्ऽत॑मानि । रान्द्र्या॑ । क्रि॒या॒स्म॒ । वक्ष॑णानि । य॒ज्ञैः ॥

सायणभाष्यम्

हेइन्द्र त्वं हियस्मात्कारणात् ब्रह्माणि स्तोत्राणि वर्धनानि स्वयमेववृद्धिकराणि च्चकृषे कृतवानसि तस्मात्कारणात् तावत् तावन्ति तादृशानि स्तोत्राणि ते तुभ्यं मतिभिर्बुद्धिभिः वयं विविष्मः व्याप्नुमः वर्धनानि स्तोत्राणि मम यथा भवेयुः त्वं तादृशानि कल्पितवान- सीत्यर्थः अपिच हेसुतपाः अभिषुतसोमस्यपातः त्वामुद्दिश्य सुतेसोमेअभिषुतेसति शंतमानि सुखकृत्तमानि रांद्भ्या रांद्भ्याणि रमणीया- नि यज्ञैर्हविर्भिर्युक्तानि वक्षणानि वाहकानि स्तोत्राणि क्रियास्म करवाम ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६