स नो॑ बोधि पुरो॒ळाशं॒ ररा॑ण॒ः पिबा॒ तु सोमं॒ गोऋ॑जीकमिन्द्र ।
एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ॥
सः । नः॒ । बो॒धि॒ । पु॒रो॒ळाश॑म् । ररा॑णः । पिब॑ । तु । सोम॑म् । गोऽऋ॑जीकम् । इ॒न्द्र॒ ।
आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । उ॒रुम् । कृ॒धि॒ । त्वा॒ऽय॒तः । ऊं॒ इति॑ । लो॒कम् ॥
हेइन्द्र रराणोरममाणः सत्वं नोस्मदीयं पुरोडाशं एतल्लक्षणंहविर्बोधि बुध्यस्व किंच गोऋजीकं गोविकारदध्यादिभिःसंस्कृतं अभि- षुतंसोमंनुक्षिप्रं पिब पिबेः तदर्थंच यजमानस्य संबन्धीदं बहिरासीदाभिविश तदनंतरं त्वायतस्त्वामिच्छन्तोयजमानस्य लोकं स्थानं उरुविस्तीर्णं कृधि कुरु उइतिपूरणः ॥ ७ ॥