मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २३, ऋक् ८

संहिता

स म॑न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु ।
प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इन्द्र यम्याः ॥

पदपाठः

सः । म॒न्द॒स्व॒ । हि । अनु॑ । जोष॑म् । उ॒ग्र॒ । प्र । त्वा॒ । य॒ज्ञासः॑ । इ॒मे । अ॒श्नु॒व॒न्तु॒ ।
प्र । इ॒मे । हवा॑सः । पु॒रु॒ऽहू॒तम् । अ॒स्मे इति॑ । आ । त्वा॒ । इ॒यम् । धीः । अव॑से । इ॒न्द्र॒ । य॒म्याः॒ ॥

सायणभाष्यम्

हेउग्र उद्गूर्णबलेन्द्र सत्वं अनुजोषं कामानुगुणं यथाभवतितथा मन्दस्व मोदस्व हिशब्दःपादपूरणः हियोगेमन्दस्वेत्याख्यातस्यव्य- त्ययात्सर्वानुदात्तत्वं इमेयज्ञासोयज्ञाः सोमाः त्वा त्वां प्राश्नुवन्तु प्राप्नुवन्तु हेपुरुहूत बहुभिराहूतेन्द्र त्वां अस्मे अस्मदीयानि इमे हवा- सोहवाःस्तोत्राणि प्राप्नुवन्तु इयंधीः स्तुतिः त्वां अवसे अस्माकं रक्षणाय आयम्याः आयच्छतु नियच्छतु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६