मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २३, ऋक् ९

संहिता

तं वः॑ सखाय॒ः सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् ।
कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ॥

पदपाठः

तम् । वः॒ । स॒खा॒यः॒ । सम् । यथा॑ । सु॒तेषु॑ । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् ।
कु॒वित् । तस्मै॑ । अस॑ति । नः॒ । भरा॑य । न । सुस्वि॑म् । इन्द्रः॑ । अव॑से । मृ॒धा॒ति॒ ॥

सायणभाष्यम्

हेसखायः स्तोतारोवोयूयं सोमेषु सुतेषु अभिषुतेषुसत्सु भोजं दातारं तमीं एतमिन्द्रं सोमेभिः सोमैः यथाकामं संपृणत संपूरयत तस्माइन्द्राय कुविद्बहूपकरणं कुविदितिबहुनामैतत् असति अस्तु किमर्थं नोस्माकं भराय भरणाय पोषणाय इन्द्रः सुष्विमभिषवणशीलं यजमानं अवसे तर्पणाय नमृधाति नबाधते ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६