मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २३, ऋक् १०

संहिता

ए॒वेदिन्द्र॑ः सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोनः॑ ।
अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिन्द्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥

पदपाठः

ए॒व । इत् । इन्द्रः॑ । सु॒ते । अ॒स्ता॒वि॒ । सोमे॑ । भ॒रत्ऽवा॑जेषु । क्षय॑त् । इत् । म॒घोनः॑ ।
अस॑त् । यथा॑ । ज॒रि॒त्रे । उ॒त । सू॒रिः । इन्द्रः॑ । रा॒यः । वि॒श्वऽवा॑रस्य । दा॒ता ॥

सायणभाष्यम्

मघोनोधनवतोहविष्मतोयजमानस्य क्षयत् ईश्वरः इन्द्रः सोमेसुते अभिषुतेसति भरद्वाजेषु भरद्वाजेमयि एव एवं अस्तावि स्तुतोभूत् इन्द्रः जरित्रे स्तोत्रे सूरिः सन्मार्गे प्रेरकोयथासत् भवत् उतापिच विश्ववारस्य विश्वैर्वरणीयस्य रायोधनस्य दाता यथाभवेत् तथा स्ता- वीतिसंबन्धः इदितिद्वयंपूरणम् ॥ १० ॥

तृतीयेनुवाकेविंशतिसूक्तानि तत्रवृषामदइतिदशर्चंप्रथमंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं वृषेत्यनुक्रन्तं विषुवतिनिष्केवल्येएतत्सूक्तं सूत्रितंच—वृषामदःप्रमंहिष्ठायेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६